This page has not been fully proofread.

धनप्रशंसा
 
अथ धनप्रशंसा ॥ २१ ॥
 
332
 
जातियतु रसातलं गुणगणस्तस्याप्यधो गच्छतु
शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निा ।
शौर्य वैरिणि वचमाशु निपतत्वर्थोस्तु नः केवलं
येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १ ॥
 
333
 
यस्यास्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान्गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ २ ॥
एतौ भर्तृहरेः ।
 
334
 
वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धास्तु ये परे ।
 
ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ ३ ॥
 
चाणक्यस्य ।
 
335
 
हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य ।
अव्यतिपरुपमसत्यं पूज्यं वाक्यं समृद्धस्य ॥ ४ ॥
 
क्षेमेन्द्रस्य ।
 
336
 
अर्थार्थी जीवलोकोयं श्मशानमपि सेवते ।
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥ ५॥
 
337
 
न सा विद्या न तच्छीलं न तद्दानं न सा कला ।
भर्यार्थिमिर्न तच्छर्य धनिनां यन्न कीर्त्यते ॥ ६ ॥
 
338
 
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।
आकाशे पक्षिमिश्चैव तथा सर्वत्र वित्तवान् ॥ ७ ॥
 
५१