This page has not been fully proofread.

६४४
 
शार्ङ्गधरपद्धतिः
 
4209
 
यथोदिते दिनकरे कापि याति तमस्विनी ।
 
तथा विवेकेभ्युदिते काप्यविद्या विलीयते ॥ ३१ ॥
 
4210
 
नाहं मांस न चास्थीनि देहादन्यः परोप्यहम् ।
इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते ॥ ३२ ॥
 
4211
 
सर्वा दृष्टी परित्यज्य नियम्य मनसा मनः ।
सबाह्याभ्यन्तरार्थस्य संकल्पस्य क्षयं कुरु ॥ ३३ ॥
 
4212
 
यदि वर्षसहस्राणि तपश्चरसि दारुणम् ।
 
तथापि ते न सिद्धिः स्यात्संकल्पोपशमादृते ॥ ३४ ॥
 
4213
 
हरो यद्युपदेष्टा स्याद्धरिः कमलजोपि वा ।
तथापि ते न सिद्धि: स्यात्संकल्पोपशमादृते ॥ ३५ ॥
 
4214
 
संकल्पतन्तावखिला भावाः प्रोताः शुभाशुभाः ।
छिन्ने तन्तौ न जायन्ते कल्पान्तेपि शरीरिणः ॥ ३६ ॥
 
4215
 
शान्तसंदेहदौरात्म्यं गतकौतुकविभ्रमम् ।
परिपूर्णान्तर चेतः पूर्णेन्दुरिव राजते ॥ ३७ ॥
 
4216
 
चेतश्चञ्चलया वृत्त्या चिन्तानिचयपञ्ञ्जरे ।
वृत्तिं बधाति नैकत्र पञ्चरे केसरी यथा ॥ ३८ ॥
 
4217
 
दृष्टमात्रेषु भावेषु यथा बत न रुच्यते ।
तथैव तदनायत्तं चिरं चित्ते न रुध्यते ॥ ३९ ॥