This page has not been fully proofread.

अथोपदेशः
 
4200
 
शुभवासनया चेतो महत्या जायते महत् ।
आत्मानं चिन्तयन्द्रं नन्दी रुद्रत्वमागतः ॥ २२ ॥
 
4201
 
क्षुद्रवासनया चेतः क्षुद्रतामेति नित्यशः ।
पिशाचविभ्रमात्सुप्तः पिशाचान्निशि पश्यति ॥ २३ ॥
 
4202
 
सदातिशययुक्तेन विश्वामित्रेण विप्रता ।
 
भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ २४ ॥
 
4203
 
प्रणयेन यमं जित्वा कृत्वा वचनसंगरम् ।
परलोका दुपानीतः सावित्र्या सत्यवान्पतिः ॥ २५ ॥
 
4204
 
न सोस्त्यतिशयो लोके यस्यास्ति न फलोदयः ।
 
अतः कार्य: प्रयत्नस्तु सद्भिः शिवफलातये ॥ २६ ॥
 
4205
 
युक्त्या संतरतो ज्ञस्य संसारो गोष्पदाकृतिः ।
दूरसंव्यक्तयुक्तेस्तु महागाधार्णवोपमः ॥ २७ ॥
 
4206
 
सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा ।
 
वेषयन्ति न दुःखानि शरा वज्रशिलामिन ॥ २८ ॥
 
4207
 
पुंसो निजमनोमोहकल्पितानल्पदुःखदः ।
संसारविषवेतालो विचारेणैव लीयते ॥ २९ ॥
 
4208
 
विचारदर्पणे लमां धियं धैर्यधुरं गताम् ।
 
आधयो न विलुम्पन्ति वाताश्चित्रानलं यथा । ३० ॥