This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
 
नो चेचेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६ ॥
 
4177
 
यदा किंचिज्जोहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोस्मीत्यभवदवलितं मम मनः ।
यदा किंचित्किाचे दुधजनसकाशादवगतं
तदा मूर्खोस्मीति ज्वर इव मदो मे व्यपगतः ।॥ ७ ॥
 
4178
 
माने म्लायिनि खण्डिते च वसुनि व्यर्थ प्रयातेथिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्रुकन्यापयः-
पूतग्रावगिरीन्द्रकंदरदरीकुञ्चे निवासः क्वचित् ॥ ८ ॥
एते भर्तृहरेः ।
 
अथोपदेशः ॥ १५३ ॥
 
4179
 
द्रविणस्पृहया दुरीश्वराणां
भरवित्तर्द्धिविशेषणं भजन्तः ।
अपुनर्भवसाधनं शरीरं
 
क्षपयामो वयमों नमः शिवाय ॥ १ ॥
 
4180
 
स वेदो निर्वेदः स्मृतिरपि च सा विस्मृतिरहो
स शास्त्रार्थी व्यर्थस्तदपि यजनं मोहजननम् ।
स ऊहः प्रत्यूहो हरिहरकथा सा च वितथा
न यत्र स्यादात्मा स्फुरदनुभवप्रत्ययमयः ॥ २ ॥
कस्यापि ।
 
4181
 
कुले महाते जातेन आत्मनः श्रेय इच्छता ।
 
आत्मज्ञाने श्रमः कार्यो यज्ज्ञात्वामृतमश्नुते ॥ ३ ॥