This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
उद्रिक्तः स च राजपुत्रनिवहस्ते बन्दिनस्ताः कथाः
सर्वे यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ २ ॥
 
4165
 
प्राप्ता जरा यौवनमप्यतीतं
 
बुधा यतध्वं परमार्थसिद्धयै ।
आयुर्गतप्रायमिदं यतोतो
 
विश्रम्य विश्रम्य न याति कालः ॥ ३ ॥
एतौ भर्तृहरेः ॥
 
4166
 
कांश्चित्कल्पशतं कृतस्थितिचयान्कांश्चिद्युगानां शतं
कांश्चिइर्षशतं तथा कतिपयाञ्जन्तून्दिनानां शतम् ।
तांस्तान्कर्मभिरात्मनः प्रतिदिनं संक्षीयमाणायुषः
कालोयं कवलीकरोति सकलान्भ्रातः कुतः कौशलम् ॥ ४ ॥
 
4167
 
कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जग-
द्ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विनो विचारादिति ।
पश्यामोपि विनश्यतोनवरतं लोकाननेकान्मुधा
मायामोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥ ५ ॥
एतौ शार्ङ्गधरस्य ।
 
4168
 
अद्यैव हसितं गीतं पठितं यैः शरीरिभिः ।
 
अद्यैव ते न दृश्यन्ते कष्टं कालस्य चेष्टितम् ॥ ६ ॥
कस्यापि
 
4169
 
श्रियमाणं मृतं बन्धुं शोचन्ति परिदेवनैः ।
 
आत्मानं नानुशोचन्ति कालेन कवलीकृतम् ॥ ७॥
 
श्री देवगणदेवानाम् ।
 
4170
 
आराध्य भूपतिमवाप्य ततो धना
 
भुजामहे वयमिह प्रसभं सुखानि ।