शार्ङ्गधरपद्धतिः /651
This page has not been fully proofread.
शार्ङ्गधरपद्धतिः
ध्यातं वित्तमहर्निशं नियमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ४ ॥
4154
जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
लाध्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
संजातव्यर्थपक्षाः परराहेतकरणे नोपरिष्टाच चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ५ ॥
4155
धन्यानां गिरिकंदरे निवसतां ज्योतिः परं ध्यायता-
मानन्दाश्रुजलं पिवन्ति शकुना निःशङ्कमङ्गेशयाः ।
अस्माकं तु मनोरथोपर चितप्रासादवापीतट-
क्रीडाकाननकेलिकौतुकजुषामायुः परं क्षीयते ॥ ६ ॥
4156
अजानन्माहात्म्यं पतति शलभस्तीब्रदहने
न मीनोपि ज्ञात्वा बाडेशयुतमश्वाति पिशितम् ।
विजानन्तोप्येते वयामेह विपज्जालजटिला-
न्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥ ७ ॥
एते भर्तृहरेः ।
4157
चलत्तरलतूष्णेन किमिवास्मिन्धरातले ।
मया तत्कृतमज्ञेन पश्चात्तापाभिवृद्धये ॥ ८ ॥
वासिष्ठात् ।
4158
मन्त्रोद्भावितदैवतैर्न विधिवदासीकृताः सिद्धयो
योगाभ्याससमाहितैरनुदिनं तीर्णो न मोहार्णवः ।
क्षुभ्यत्क्षुद्रनरेन्द्रदत्तवेिगलत्संपल्लवोल्लासितै-
र्धिङ्गूढैरिव पण्डितैरपि बलात्कालः कथं नीयते ॥ ९ ॥