This page has not been fully proofread.

पश्चात्तापः
 
4148
 
तृषा श्रुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि
क्षुधार्त: सञ्शालीन्कवलयति मांसाज्यकलितान् ।
प्रदीप्ते कामामी सुदृढतरमाश्लिष्यति वधूं
प्रतीकार व्याधेः सुखमिति विपर्यस्यति जनः ॥ ११ ॥
 
कस्यापि ।
 
4149
 
जन्मैव व्यर्थतां नीतं भवभोगप्रलोभिना ।
 
काचमूल्येन विक्रीतो हन्त चिन्तामणिर्मया ॥ १२ ॥
 
अथ पश्चात्तापः ॥ १५० ॥
 
4150
 
भोगा न भुक्ता वयमेव भुक्ता-
स्तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याता-
स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ १ ॥
 
4151
 
नाभ्यस्ता भुवि वादिवृन्ददमनी विद्या विनीतोचिता
खड्गाभैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ २ ॥
 
4152
 
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
 
स्वर्गद्वारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वमेपि नालिङ्गित
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ३ ॥
 
4153
 
क्षान्तं न क्षमया गृहोचितमुखं त्यक्तं न संतोषतः
सोढा दु:सहशीतवाततपनक्लेशा न तप्तं तपः ।