This page has been fully proofread once and needs a second look.

५०
 
शार्ङ्गधरपद्धतिः
 

325
 

वीणावंशाश्रयात्तुम्वंबं चुम्त्युचैःच्चै: कुचौ स्त्रियः ।

तत्तु नापितसंसर्गाद्रक्तं नक्तंचरो यथा ॥ ५ ॥
 

326
 

किंचिदाश्रय सौन्दर्यात्ते शोभामसाध्वपि ।

कान्ताविलोचने न्यस्तं मलीमसमिबावाञ्जनम् ॥ ६ ॥
 

327
 

आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।

विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ७ ॥
 

328
 

संसर्गाद्भवति हि साधुता खलानां
 

साधूनां न च खलसंगमात्खलत्वम् ।

आमोदं कुसुमभवं मृदेव धत्ते

मृद्गन्धं न च कुसुमानि धारयन्ति ॥ ८ ॥
 

329
 

असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो

न सङ्गाद्दौर्जन्यं न हि सुजनता कस्यचिदपि ।

प्ररूढे संसर्गे मणिभुजग यो र्जन्मजनिते

मणिर्नाहेर्दोपाषान्स्पृशति न तु सर्पो मणिगुणान् ॥ ९ ॥
 

केषामध्प्येते ।
 

330
 

संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
 

मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ॥

स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं

प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १० ॥
 

331
 

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
 
.
 

पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ११ ॥

एतौ विष्णु शर्मणः ।