This page has not been fully proofread.

५०
 
शार्ङ्गधरपद्धतिः
 
325
 
वीणावंशाश्रयात्तुम्वं चुम्वत्युचैः कुचौ स्त्रियः ।
तत्तु नापितसंसर्गाद्रक्तं नक्तंचरो यथा ॥ ५ ॥
 
326
 
किंचिदाश्रय सौन्दर्यात्ते शोभामसाध्वपि ।
कान्ताविलोचने न्यस्तं मलीमसमिबाञ्जनम् ॥ ६ ॥
 
327
 
आश्रयवशेन सततं गुरुता लघुताच जायते जन्तोः ।
विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ॥ ७ ॥
 
328
 
संसर्गाद्भवति हि साधुता खलानां
 
साधूनां न च खलसंगमात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न च कुसुमानि धारयन्ति ॥ ८ ॥
 
329
 
असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो
न सङ्गाहर्जन्यं न हि सुजनता कस्यचिदपि ।
प्ररूढे संसर्गे मणिभुजग यो र्जन्मजनिते
मणिर्नहेर्दोपान्स्पृशति न तु सर्पो मणिगुणान् ॥ ९ ॥
 
केषामध्येते ।
 
330
 
संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
 
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ॥
स्वातौ सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १० ॥
 
331
 
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
 
.
 
पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ११ ॥
एतौ विष्णु शर्मणः ।