This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4141
 
कृमयो भस्म विष्ठा वा निष्टा यस्येयमीदृशी ।
स कायः परतापाय युज्यतामिति को नयः ॥ ४ ॥
 
कस्यापि ।
 
4142
 
रक्तमांसमयः कायः स्त्रीणां स्पर्शसुखायनः ।
तमेवानन्ति सिंहाद्या रम्यं नास्तीह वस्तुतः ॥ ५ ॥
 
4143
 
अङ्गमङ्गेन संपीड्य मांसं मांसेन तु स्त्रियाः ।
तु
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥ ६ ॥
 
4144
 
एतौ वासिष्ठात् ।
 
उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।
क्लेदिनि स्त्रीत्रणे सक्तिरकृमेः कस्य जायते ॥ ७॥
 
कस्यापि ।
 
4145
 
दृष्ट्वैव विकृतं कायं वायुस्पन्दविवर्जितम् ।
 
•येषु निर्व्याजमासक्तास्तेभ्योपि विभिमो वयम् ॥ ८ ॥
 
श्रीदेवगणदेवानाम् ।
 
4146
 
श्वेतं पदं समभिवीक्ष्य शिरोरुहाणां
स्थानं परं परिभवस्य तदेव पुंसाम्

आरोपितास्थिशकलं परिहत्य यान्ति
 
चण्डालकूपमिव दूरवरं तरुण्यः ॥ ९ ॥
 
4147
 
स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रकिन्नं करिवरकरस्पर्धि जघनं
 
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम् ॥ १० ॥
 
एतौ
 
भर्तृहरे: ।