This page has not been fully proofread.

६३२
 
शार्ङ्गधरपद्धतिः
 
4127
 
इतो न किंचित्परतो न किंचि-
यतो यतो यामि ततो न किंचित् ।
स्वात्मावबोधादपरं न किंचि-
द्विचार्यमाणेपि जगन्न किंचित् ॥ १७ ॥
 
कस्यापि ।
 
4128
 
यदस्माभिर्दृष्टं क्षणिकमभवत्स्वम इव त-
त्कियन्तो भावास्तु स्मरणविषयादव्यपगताः ।
अहो पश्यत्पश्यत्स्वजनमखिलं यान्तमनिशं
हतन्रीडं चेतस्तदपि न भवेत्सङ्गरहितम् ॥ १८ ॥
 
श्रीशिवदासदेवानाम् ।
 
4129
 
साक्षात्प्रेमावतारः कमलदलदृशो दिक्षु लक्ष्मीरनन्ता
 

 
सत्पुत्रा: संततित्रा: समविपदावेपत्संविभागी कुटुम्ब:
एतत्सर्वे हि तावत्कृतविलसितं दृश्यमानं मनोज्ञं
 
यावन्नैतत्यणाशप्रणाय बत मनाङ्लायते ते न चेतः ॥१९।
 
हरिगणस्य ।
 
4130
 
चेतोहरा युवतयः सुहृदोनुकूला:
सद्वान्धवाः प्रणयगर्भगिरथ भृत्याः ।
वल्गन्ति दन्तिनिवहास्तरलास्तुरंगा:
संमीलने नयनयोर्नहि किंचिदस्ति ॥ २० ॥
 
कस्यापि ।
 
4131
 
पृथिवी दह्यते यत्र मेरुश्चापि विशीर्यते ।
 
सुशोषं सागरजलं शरीरे तत्र का कथा ॥ २१ ॥
 
4132
 
इदं युगसहस्रस्य भविष्यदभवद्दिनम् ।
सदस्यघत्वमापद्मं का कथा मरणावधेः ॥ २२ ॥