This page has not been fully proofread.

अनित्यतानिरूपणम्
 
4120
 
येषु येषु दृढा भावा भावना दृष्टवस्तुषु ।
तानि तानि विनष्टानि दृष्टानि किमिहोत्तमम् ॥ १० ॥
 
4121
 
यन्मध्ये यच्च पर्यन्ते यदापाते मनोरमम् ।
सर्वमेवापवित्रं तद्विनाशामेध्यदूषितम् ॥ ११ ॥
 
4122
 
नीलोत्पलाभनयनाः परमप्रेमभूषणम् ।
 
हासायैव विलासिन्यः क्षणभङ्गितया स्थिताः ॥ १२ ॥
एते वासिष्ठात् ।
 
1000
4123
 
गन्धर्वनगराकारः संसारः क्षणभङ्गुरः ।
मनसो वासनैवेयमुभयोर्भेदसाधनम् ॥ १३ ॥
 
4124
 
नन्दन्ति मन्दाः श्रियमाप्य नित्यं
परं विषीदन्ति विपद्गृहीताः ।
विवेकदृष्ट्या चरतां नराणां
 
श्रियो न किंचिद्विपदो न किंचित् ॥ १४ ॥
 
4125
 
मित्रं कलत्रममितः परिवारलोको
 
भोगैकसाधनमिमाः किल संपदो नः ।
 
एक: क्षणः स तु भविष्यति यत्र भूयो
नायं न यूयमितरे न वयं न चैते ॥ १५ ॥
 
4126
 
गतेनापि न संबन्धो न सुखेन भविष्यता ।
वर्तमानं क्षणातीतं संगतिः केन कस्य वा ॥ १६ ॥
एते श्रीदेवगणदेवानाम् ।