This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
इदानीमैते स्मः प्रतिदिवसमासन्न पतना
गतास्तुल्यावस्थां सिकतिलनदीतीर तरुभिः ॥ ३ ॥
 
4114
 
रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादि किं
किं वा प्राणसमासमागमसुखं नैवाधिकं प्रीतये ।
किं तूझान्त पतत्पतङ्ग पवनव्यालोलदीपाङ्कुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो बनान्तं गताः ॥ ४ ॥
 
एते भर्तृहरेः ।
 
4115
 
न्यस्तं यथा मूर्ध्नि मुदात्ति मेषो
दूर्वाक्षताद्यं बलिकल्पितः सन् ।
मृत्युं समीपस्थितमप्यजान-
न्भुनक्ति मर्त्यो विषयांस्तथैव ॥ ५ ॥
 
कस्यापि ।
 
4116
 
अहमिह कृतविद्यो वेदिता सत्कलानां
धनपतिरहमेको रूपलावण्ययुक्तः ।
इति कृतगुणगर्व: खिद्यते किं जनोयं
कतिपयदिनमध्ये सर्वमेतन्न किंचित् ॥ ६ ॥
श्रीदामोदरदेवानाम् ।
 
4117
 
गलितानीन्द्रलक्षाणि बुद्बुदानीव वारिणि ।
 
मां जीवितनिबद्धाशं विहसिष्यन्ति साधवः ॥ ७ ॥
 
4118
 
संसाररात्रिदु:स्त्रमे शून्ये देहमयभ्रमे ।
आस्थां चेदनुबध्नामि तन्मूख नास्ति मत्परः ॥ ८ ॥
 
4119
 
एता याः प्रेक्षसे लक्ष्मीश्छत्रचामरचञ्चलाः ।
स्वम एष महाबुद्धे दिनानि त्रीणि पञ्च च ॥ ९ ॥