This page has not been fully proofread.

६२६
 
शार्ङ्गधरपद्धतिः
 
4092
 
मितमायुर्वयो नित्यं नैति यातं कदाचन ।
परामृशन्ति तदापे न भवं भोगलोलुपाः ॥ ४ ॥
 
केषामध्येते ।
 
4093
 
व्यात्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ५॥
 
4094
 
क्षणं बालो भूत्वा क्षणमपि युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणमपि च संपूर्णविभवः ।
जराजीरनेट इव वलीमण्डिततनु-
र्नरः संसाराङ्के विशति यमधानीजवनिकाम् ॥ ६ ॥
 
4095
 
मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतोद्रे कस्फुरन्निर्मल-
ज्ञानापास्त समस्त मोहमहिमा लीये परे ब्रह्मणि ॥ ७ ॥
 
4096
 
किं कंदर्प करं कदर्थयसि रे कोदण्डटंकारितै
रे रे कोकिल कोमलैः कलरवैः किं त्वं वृथा वल्गसि ।
मुग्धे स्निग्धविदग्धमुग्धमथुरैर्लोलैः कटाक्षैरलं
चेतचुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ ८ ॥
 
एते भर्तृहरेः ।
 
4097
 
भू: पर्यङ्को निजभुजलता कन्दुकं खं वितानं
दीपश्चन्द्रो विरतिवनितालब्धसङ्गप्रमोदः ।