This page has been fully proofread once and needs a second look.


318
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
संतोष एव पुरुषस्य परं निधानम् ॥ १२ ॥
319
अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
नष्टधनश्च स शोकं सुखमास्ते नि:स्पृहः पुरुषः ॥ १३ ॥
320
तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम् ।
तत्सौभाग्यं पुंसां यदेतदप्रार्थनं नाम ॥ १४ ॥
केषामप्येते ।
--------------
अथ
संसर्गप्रशंसा
 
318
 
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्केस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
 
संतोष एव पुरुषस्य परं निधानम् ॥ १२ ॥
 
319
 
अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
 
नष्टधनश्च स शोकं सुखमास्ते नि:स्पृहः पुरुषः ॥ १३ ॥
 
320
 
तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम् ।
तत्सौभाग्यं पुंसां यदेतदप्रार्थनं नाम ॥ १४ ॥
 
केषामप्येते ।
 
अथ संसर्गप्रशंसा
॥ २० ॥
 

321
 

महानुभावसंसर्गः कस्य नोन्नतिकारकः ।

रथ्याम्बु जाह्नवी सङ्गादित्रिदशैरपि वन्द्यते ॥ १ ॥
 

322
 

द्र
वत्वात्सर्वलोहानां ममत्वान्मृगपक्षिणाम् ।

भयाल्लोभाच्च मूर्खाणां दर्शनात्संगतं सताम् ॥ २ ॥
 

323
 

विकृतिं नैव गच्छन्ति सङ्गदोषेण साधव ।

आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ ३ ॥
 

324
 
४९
 

न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह ।

पयोपि शौण्डिनीहस्ते मदिरां मन्यते जनः ॥ ४ ॥