This page has not been fully proofread.

संसर्गप्रशंसा
 
318
 
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्केस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
 
संतोष एव पुरुषस्य परं निधानम् ॥ १२ ॥
 
319
 
अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च ।
 
नष्टधनश्च स शोकं सुखमास्ते नि:स्पृहः पुरुषः ॥ १३ ॥
 
320
 
तन्मूलं गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम् ।
तत्सौभाग्यं पुंसां यदेतदप्रार्थनं नाम ॥ १४ ॥
 
केषामप्येते ।
 
अथ संसर्गप्रशंसा ॥ २० ॥
 
321
 
महानुभावसंसर्गः कस्य नोन्नतिकारकः ।
रथ्याम्बु जाह्नवी सङ्गादिशैरपि वन्द्यते ॥ १ ॥
 
322
 
अवत्वात्सर्वलोहानां ममत्वान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां दर्शनात्संगतं सताम् ॥ २ ॥
 
323
 
विकृतिं नैव गच्छन्ति सदोषेण साधव ।
आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ ३ ॥
 
324
 
४९
 
न स्थातव्यं न गन्तव्यं क्षणमप्यधमैः सह ।
पयोपि शौण्डिनीहस्ते मदिरां मन्यते जनः ॥ ४ ॥