This page has not been fully proofread.

रौद्ररस निर्देश:
 
एता: शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिब-
न्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ २ ॥
 
कस्यापि ।
 
4077
 
उत्कृत्य ज्वलितां शबात्कथमपि प्रेताशनः पौशेतीं
पेशीमग्निमयीं निगीर्य सहसा दन्दह्यमानोदरः ।
 
धावत्युत्प्लवते मुहुर्निपतति प्रोत्तिष्ठति प्रेक्षते
 
विष्वक्रोशति संपिनष्टि जठरं मुष्टया चलन्मस्तकः ॥ ३ ॥
 
कस्यापि ।
 
4078
 
विकीर्णहरिचन्दनद्रविणि यत्र लीलारसा-
निपेतुरलिचञ्चलाश्चतुर कामिनीदृष्टयः ।
तदेतदुपरिभ्रमन्निविडगृध्रजालं जनै-
लुटत्कृमि कलेवरं पिहितनासिकैर्वीक्ष्यते ॥ ४ ॥
 
इन्द्रकवेः ।
 
६२३
 
4079
 
प्रस्वेदमल दिग्धेन वहता मूत्रशोणितम् ।
 
व्रणेन विकृतेनेदं सर्वमन्धीकृतं जगत् ॥ ५ ॥
 
कस्यापि ।
 
अथ रौद्ररस निर्देशः ॥ १४६ ॥
 
4080
 
पातालत: किमु सुधारसमानयामि
निष्पीड्य चन्द्रममृतं किमुताहरामि ।
उद्यन्तमद्य तपनं किमु वारयामि
की नाशमाशु कणशः किमु चूर्णयामि ॥ १ ॥
 
महानादकान् ।
 
4081
 
यत्सत्यवतभङ्गभीतमनसा यत्नेन मन्दीकृतं
 
यविस्मर्तुमपीहितं शमत्रता शान्ति कुलस्येच्छता ।