This page has not been fully proofread.

६२२
 
शार्ङ्गधरपद्धतिः
 
4072
 
माद्यन्मातङ्ककुम्भस्थलबहलवसावासनावित्रगन्ध-

 
व्यास क्तव्यक्तमुक्ताफलशकललसत्केसरालीकरालः
एणीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्त्रिधामा
गुञ्जन्कुञ्जे गिरीणां हरिरिह शत्ररीगर्भपातं विधत्ते ॥ ८ ॥
 
भद्दयशसः ।
 
4073
 
महाप्रलयमारुतक्षुभितपुष्करावर्तक-
प्रचण्डवनगजतप्रतिरवानुकारी मुहुः ।
रवः श्रवणभैरवः स्थगितरोदसीकंदर:
कुतोद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ९ ॥
 
4074
 
मन्थायस्तार्णवाम्भः प्रतिकुहरबलन्मन्दरध्वानधीरः
कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः ।
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः
केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोयम् ॥१०॥
 
एतौ नारायणस्य ।
 
अथ बीभत्सरसनिर्देशः ॥ १४५ ॥
 
4075
 
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा-
न्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युमपूंतीनि जग्ध्वा ।
आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशन: प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्ययमत्ति ॥ १ ॥
 
भवभूतेः ।
 
4076
 
अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल-
व्यक्तोत्तंसभृतः पिनह्य शिरसा हत्पुण्डरीकस्रजः ।