This page has not been fully proofread.

भयानकरस निर्देश:
 
व्यावल्गद्वलवद्धिरण्यकशिपुक्रोडस्थलास्फालन-
स्पष्टप्रस्फुटद (स्थपञ्जररवक्रूरा नखा: पान्तु वः ॥ २ ॥
 
हनूमतः ।
 
4067
 
अद्याप्युन्मदयातुधानतरुणीचश्चत्करास्फालन-
व्यावल्गन्नू कपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।
उद्गायन्ति यशांसि यस्य विततैनः प्रचण्डानिल-
प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्त रणक्षोणयः ॥ ३ ॥
 
कृष्णमिश्रस्य ।
 
4068
 
इदं मघोनः कुलिशं धारासंनिहितानलम् ।
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ॥ ४ ॥
 
दण्डिनः ।
 
4069
 
तपः परामर्शविवृद्धमन्यो-
भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्भिः सहसा तृतीया-
दक्ष्णः कृशानुः किल निष्पपात ॥ ५ ॥
 
कालिदासस्य ।
 
4070
 
किंचित्कोपकलाकलापकलनाहंकार बिभ्रद्भुवो-
विक्षेपादकरोदसौ रघुपतिर्लङ्करपतेः पत्तनम् ।
 
६२१
 
क्रन्दत्फेरु रटत्करेटु विचटदारु स्फुटद्गुग्गुलु
प्रक्रीडत्कपि निःश्वसत्कणि रणज्झिल्लि भ्रमपि च ॥ ६॥
 
मुरारेः ।
 
4071
 
प्रौढच्छेदानुरूपोंच्छलनरयवशात्सहि के थोपमेय-
त्रासाष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् ।
कुर्वत्काकुत्स्थ वीर्यस्तुतिमिव मरुतां कंधरारन्ध्रभाजां
भांकार ममेतन्त्रिपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥ ७ ॥
 
यशोवर्मणः ।