This page has not been fully proofread.

६२०
 
शार्ङ्गधरपद्धतिः
 
4060
 
केशोल्लुच्चनसाम्येपि हन्त पश्यैतदन्तरम् ।
उपस्था: कीटमअन्ति घृतमत्तं दिगम्बराः ॥ ३५ ॥
 
4061
 
भिक्षो मांसनिषेवणं प्रकुरुषे किं तेन मद्यं विना
मद्यं चापि तव प्रियं प्रियमहो वेश्याङ्गनाभिः सह ।
वेश्या द्रव्यरुचिः कुतस्तव धनं द्यूतेन चौर्येण वा
चौर्य द्यूतपरिग्रहोपि भवतो नटस्य कान्या गतिः ॥ ३६ ॥
 
कस्यापि ।
 
4062
 
सामगायनपूतं मे नोच्छिटमधरं कुरु ।
उत्कण्डितासि चेद्भद्रे वामकर्ण दशस्व मे ॥ ३७ ॥
 
कस्यापि ।
 
4063
 
भस्माङ्गुलिर्बकोड्डायी बालशौची तथा हिहिः ।
धारावर्ती चक्रवर्ती षडेते पुरुषाधमाः ॥ ३८ ॥
 
4064
 
प्रेषक; प्रैष्यकः काण्डः किमेक: स्तम्भलीनकः ।
योगी तत्कालरोगी च षडेते सेवकाधमाः ॥ ३९ ॥
 
अथ भयानकरसनिर्देशः ॥ १४४ ॥
 
4065
 
दीप्रक्षुद्वेग योगाइदनलहलहल्लम्बजिह्वामलीढ-
ब्रह्माण्डक्षौद्रबिन्दुप्रबलतरभवज्जाठरामिस्फुलिङ्गाम् ।
कालीं कङ्कालशेषामतुलगलचलन्मुण्डमालाकराली-
गुञ्जासंवादिनेत्रामजिननिवसनां नौमि पाशासिहस्ताम् ॥ १ ॥
शार्ङ्गधरस्य ।
 
4066
 
दंष्ट्रासकटवक्त्रकन्दलललज्जिहस्य हव्याशन-
ज्वालाभासुरभूरिकेसरसटाभारस्य दैत्यः ।