This page has not been fully proofread.

६१८
 
शार्ङ्गधर पद्धतिः
 
4045
 
विना मद्यं विना मांस परस्त्रहरणं विना ।
विना परापवादेन दिविरो दिवि रोदिति ॥ २० ॥
 
केषामध्येते ।
 
4046
 
अर्थो नाम जनानां जीवितमखिलं क्रियाकलापश्च ।
तं च हरन्त्यतिधूर्ताभ्यगलगला गायना लोके ॥ २१ ॥
 
4047
 
तमसि बराकचौरो हाहाकारेण याति संत्रस्तः ।
गायनचौरः कपटी हाहा कृत्वा न याति वैलक्ष्यम् ॥२२॥
 
4048
 
आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
स्वयमुक्तसाधुवादैरन्तरयति गायनो गीतम् ॥ २३ ॥
 
एते क्षेमेन्द्रस्य ।
 
4049
 
मेरुः स्थितोतिदूरे मनुष्यभूमिं परित्यज्य ।
भीतो भयेन चौर्याचौराणां हेमकाराणाम् ॥ २४ ॥
 
4050
 
तस्मान्महीपतीनामसंभवे चौरदस्यूनाम् ।
एंक: सुवर्णकारो निग्राह्यः सर्वथा नित्यम् ॥ २५ ॥
एतौ क्षेमेन्द्रस्य ।
 
4051
 
उपयुक्त खादेर बीटकजनिताधररागभङ्गभयात् ।
पितरि मृतेपि हि वेश्या रोदिति हा तात तातेति ॥ २६ ॥
 
4052
 
पूर्व चेटी ततो बेटी पश्चाद्भवति कुड्डनी ।
सर्वोपायपरिक्षीणा वृद्धा वेश्या तपस्विनी ॥ २७ ॥
 
4053
 
वर्णनदयितः कश्चिद्धनदयितो दासकर्मदयितोन्यः
 

 
रक्षादयितश्चान्यो वेश्यानां नर्मदायतोन्यः ॥ २८ ॥
 
एते क्षेमेन्द्रस्य ।