This page has not been fully proofread.

40
 
हास्यरसनिर्देश:
 
4037
 
दत्वा दिशि दिशि दृष्टिं यात्रकचकितोवगुण्ठनां कृत्वा ।
चौर इत्र कुटिलचारी पलायते कुटिलरथ्याभिः ॥ १२ ॥
 
एते क्षेमेन्द्रस्य ।
 
4038
 
वैद्यनाथ नमस्तुभ्यं क्षपिता शेषमानत्र ।
 
त्वयि विन्यस्तभारोयं कृतान्तः सुखमेधते ॥ १३ ॥
 
कस्यापि ।
 
4039
 
सत्कोणं लोलनेत्रं कुलयुवतिमुखं दृश्यते सानुकम्पै
 
स्पृश्यते पीनमङ्गम् ।
 
रण्डानामर्धलज्जाञ्चितमधिपुलकं
क्लीवानां खाद्यतेन्तश्चिरनिहितधनं काठमूलाग्नितोयैः
पूर्वा सिद्धा कलानां सकल सुखनिधिर्वैद्यविद्याभिवन्द्या ॥ १४ ॥
 
दीपकस्य ।
 
4040
 
गणयति गणने गणकश्चन्द्रेण समागमं विशाखायाः ।
विविधभुजंगक्रीडासक्तां गृहिणीं न जानाति ॥ १५ ॥
 
कस्यापि ।
 
4041
 

 
कलमामनिर्गतमषीबिन्दुव्याजेन साञ्जनाश्रुकणा
कायस्थलुण्ठयमाना रोदिति खिन्नेव राजश्रीः ॥ १६ ॥
क्षेमेन्द्रस्य ।
 
4042
 
वाचयति नान्यलिखितं लिखितमनेनापि वाचयति नान्यः ।
अयमपरोस्य विशेषः स्वयमपि लिखितं न वाचयति ॥१७॥
 
4043
 
कायस्थेनोदरस्थेन मातुरामिषशङ्कया ।
 
अन्त्राणि यच भुक्तानि तत्र हेतुरन्तता ॥ १८ ॥
 
4044
 
६१७
 
काकाल्लोल्यं यमाक्रौर्य स्थपतेदृढघातिताम् ।
 
आद्यक्षराणि संगृह्य कायस्थ: केन निर्मितः ॥ १९ ॥