शार्ङ्गधरपद्धतिः /631
This page has not been fully proofread.
६१६
शार्ङ्गधरपद्धतिः
4029
अङ्गुलिभङ्गविकल्पनविविधविवादप्रवृत्तपाण्डित्यः ।
जपत्रपलौष्ठः सजने ध्यानपरो नगररथ्यासु ॥ ४ ॥
4030
मुण्डो जटिलो नमश्छत्री दण्डी कपायचीरी वा ।
भस्मस्मेरशरीरो दिशि दिशि भोगी विजृम्भते दम्भः ॥५॥
एतौ क्षेमेन्द्रस्य ।
4031
जिह्वायाश्छेदनं नास्ति न तालुपतनाद्भयम् ।
निर्विशङ्केन वक्तव्यं निर्लज्जः को न पण्डितः ॥ ६ ॥
कस्यापि ।
4032
भुकुटीकुटिलललाट: कण्टकिताङ्गः कटाक्षविकटाक्षः ।
कवलयति पृथुलकवलैस्तण्डुलमत्रलं द्विजः क्रुद्धः ॥ ७ ॥
शार्ङ्गधरस्य ।
4033
धान्याकनागरनिशाईकदाडिमत्व-
कुस्तुम्बरीलवणतैलसुसंस्कृतान्यः ।
मत्स्यान्सु शीतसितभक्ततले ददाति
स ब्रह्मलोकमधिरोहति पुण्यकर्मा ॥ ८ ॥
कस्यापि ।
4034
भोजनं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।
दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥ ९ ॥
कस्यापि
4035
क्रय विक्रयकूटतुला लाघवनिक्षेपभक्षणव्याजैः ।
एते हि दिवसचौरा मुष्णन्ति महाजनं वाणेजः ॥ १० ॥
1
4036
आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं
दष्ट इत्र कृष्णस: पलायते दानधर्मेभ्यः ॥ ११ ॥
श्रोतुम्