This page has not been fully proofread.

हास्यरसनि देश:
 
4024
 
चतुर्ष्वपि समुद्रेषु संध्या मन्वास्य तत्क्षणात् ।
कक्षाक्षिप्तं निशान्ते स्त्रे वाल: पौलस्त्यमत्यजत् ॥ ९ ॥
वाल्मीकिमुनेः ।
 
4025
 
किंमो हरिमस्य विश्वमुदरे किं वा फणान्भोगिनः
शेते यत्र हरिः स्वयं जलनिधेः सोप्येकदेशे स्थितः ।
आश्चर्य कलशोद्भवो मुनिर सौ यस्यैकहस्तेम्बुधि-
र्गण्डूषीयति पङ्कजीयति फणी भृङ्गीयात श्रीपतिः ॥ १० ॥
 
कस्यापि ।
 
अथ हास्यरसनिर्देशः ॥ १४३ ॥
 
4026
 
पाणौ ताम्रघटी कुशाः करतले धौते सिते वाससी
भाले मृत्तिलकः सचन्दनरसन्यस्तैकपुष्पं शिरः ।
दूरात्क्षिप्रपदा गतिर्दृढतरव्याश्लिष्टदन्ता गिरः
 
सोयं वञ्चयितुं जगद्भगवतो दम्भस्य देहक्रमः ॥ १ ॥
 
कस्यापि ।
 
4027
 
वैराग्यभङ्गिरचनावचनैः प्रतार्य
रण्डाश्चिराय विकटस्तनसंनताङ्गीः ।
ब्रह्मोपदेशमिषसंगतगण्डभित्ति-
निः शङ्कचुम्बनरसैः कृतिनो द्रवन्ति ॥ २ ॥
 
कस्यापि ।
 
4028
 
६१५
 
पीटीप्रक्षालनेन क्षितिपतिकथया सज्जनानां प्रयादैः
प्रातनत्वार्धयाम कुशकुसुम समारम्भणव्यग्रहस्ताः ।
पश्चादेते निमज्जत्पुरयुवतिकुचाभोगदत्तेक्षणार्धाः
प्राणायामापदेशादिह सरिति सदा वासराणि क्षिपन्ति ॥ ३ ॥
कस्यापि ।