This page has been fully proofread once and needs a second look.

२८
 
शार्ङ्गधरपंद्धतिः
 

 
309
 

दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता ।
'

जरद्रवधनः शंभुस्तथापि परमेश्वरः ॥ ३ ॥

विष्णुशर्मणः ।
 

310
 

संतोषामृततृप्तानां यत्मुखं शान्तचेतसाम् ।

कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम् ॥ ४ ॥
 
311
 

311
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः ।

अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः ॥ ५ ॥
 

312
 

यो मे गर्भगतस्यापि वृत्ति कल्पितवान्स्वयम् ।

शेवृत्तिविधाने च स किं सुप्नोतोथवा मृतः ॥ ६ ॥
 
313
 

313
आचेन्तितानि दुःखानि यथैवायान्ति देहिनाम् ।
मु

सु
खान्यपि तथा मन्ये दैन्यमत्रातिरिच्यते ॥ ७ ॥
 

314
 

पञ्चमेहानेहनि षष्टेठे वा शाकं पचति यो गृहे ।

अनृणी चाप्रवासी च स वारिचर मोदते ॥ ८ ॥
 

315
 

आत्माधीनशरीराणां स्वपतां निद्रया स्त्रया ।

कदन्नमपि मर्त्यानाममृतत्वाय कल्पते ॥ ९ ।
 

316
 

सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ।

उपानहूद्गूढपादस्य ननु चर्मावृतैव भूः ॥ १० ॥
 

भगवतो व्यासस्यैतौ ।
 

317
 

आरोग्यं विद्वत्ता सज्जनमैत्री
 
महाकुले जन्म ।
 

स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थःथेः ॥ ११॥