This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4018
 
काकुत्स्थेन शिरांसि यानि शतशश्छिन्नानि मायानिधेः
पौलस्त्यस्य विमानसीमनि तथा भ्रान्तानि नाकौकसाम् ।
तान्येवास्य धनुः श्रमप्रशमनं कुर्वन्ति सीतापते:
क्रीडाचामर डम्बरानुकृतिभिर्दोलायमानैः कचैः ॥ ३ ॥
 
बिल्हणस्य ।
 
६१४
 
4019
 
तस्मिन्युद्धे क्षणेनैव त्वरितो वानरध्वजः ।
सरथं सध्वजं साश्वं भीष्ममन्तर्दधे शरैः ॥ ४ ॥
 
4020
 
किं क्रमिष्यति किलेब वामनो
 
भगवतो व्यासस्य ।
 
यावदित्यमहसन्त दानवाः ।
तावदस्य न ममौ नभस्तले
लङ्कितर्कशशिमण्डलः क्रमः ॥ ५ ॥
 
4021
 
युगान्तकालप्रतिसंहतात्मनो
 
जगन्ति यस्यां सविकासमासत ।
तनौ ममुस्तत्र न कैटभविष-
स्तपोधनाभ्यागमसंभवा मुदः ॥ ६ ॥
 
4022
 
पाश्चात्यभागमिह सानुषु संनिषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।
संपूर्णलब्धललनालपनोपमान-
मुत्सङ्ग सङ्गि हरिणस्य मृगाङ्कमूर्तेः ॥ ७ ॥
 
एते माघकवेः ।
 
4023
 
रत्नभित्तिषु संक्रान्तैः प्रतिबिम्ब शतैर्वृतः ।
 
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः ॥ ८ ॥
 
दण्डिकवेः ।