This page has not been fully proofread.

६१०
 
शार्ङ्गधरपद्धतिः
 
सौमित्रे तिष्ठ पात्रं त्वमसि नाहे रुषां नन्वहं मेघनादः
किंचिद्धूभङ्गलीलानियमितजलाधं राममन्वेषयामि ॥ ३५ ॥
 
महानाटकस्य ।
 
3996
 
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।
पश्चिमेनाह्नि शेषेण मेघनादेन सायकैः ॥ ३६॥
 
अथ करुणरसानेर्देशः ॥ १४१ ॥
 
वाल्मीकिमुनेः ।
 
3997
 
यस्याः कुसुमशय्यापि कोमलाङ्गया रुजाकरी ।
साधिशेते कथं देवी ज्वलन्तीमधुना चिताम् ॥ १ ॥
 
दण्डिनः ।
 
3998
 
गृहिणी सचिव : सखी मिथः
प्रियशिष्या ललिते कलाविधौ ।
 
करुणाविमुखेन मृत्युना
 
हरता त्वां बत किं न मे हृतम् ॥ २ ॥
 
कालिदासस्य ।
 
3999
 
ध्वस्तः काव्योरुमेरु: कविविपणिमहारत्नराशिर्विशीर्ण:
शुष्कः शब्दौवसिन्धुः प्रलयमुपगतो वाक्यमाणिक्यकोशः ।
दिव्योक्तीनां निधानं निधनमुपगतं हा हता दिव्यवाणी
बाणे गीर्वाणवाणीप्रणयिनि विधिना शायिते दीर्घनिद्राम् ॥ ३ ॥
 
कस्यापि ।
 
4000
 
सृजति तावदशेषगुणाकरं
 
पुरुषरत्नमलंकरणं भुवः ।
 
तदनु तत्क्षणभङ्ग करोति चे-
दहह कष्टमपण्डितता विधेः ॥ ४ ॥
 
कस्यापि ।
 
13