This page has not been fully proofread.

६०८
 
शाधरपद्धतिः
 
3982
 
हतेभिमन्यौ क्रुद्धेन तत्र पार्थेन संयुगे ।
 
अक्षौहिणी: सप्त हत्वा हतो राजा जयद्रथः ॥ २२ ॥
 
3983
 
लोहितायति चादित्ये त्वरमाणो धनंजयः ।
पञ्चविंशतिसाहस्रान्निजधान महारथान् ॥ २३ ॥
 
3984
 
रथेभ्यो गजवाजिभ्य: संग्रामे वीरसंकराः ।
पातिताः पात्यमानाश्च दृश्यन्तेर्जुनताडिताः ॥ २४ ॥
 
3985
 
पूर्णे शतसहस्रे हे पदातीनां नरोत्तमः ।
 
प्रजज्वाल रणे भीष्मो विधूम इव पावकः ॥ २५ ॥
 
3986
 
आकर्णपलितः दयामो वयसाशीतिपञ्चकः ।
रणे पर्यचरद्रोणो वृद्धः षोडशवर्षवत् ॥ २६ ॥
 
भगवतो व्यासस्यैते ।
 
3987
 
लक्ष्मणो लघुसंधानी दूरपाती च राघवः ।
कर्णो दृढप्रहारी च पार्थस्यैते त्रयो गुणाः ॥ २७ ॥
 
क्षेमेन्द्रस्य ।
 
3988
 
न कालस्य न शक्रस्य न विष्णोर्वित्तदस्य च ।
 
भ्रूयन्ते तानि कर्माणि यानि युद्धे हनूमतः ॥ २८ ॥
 
वाल्मीकिकवेः ।
 
3989
 
छिन्नेपि शस्त्रभिन्नेप्यापत्पतितेपि निर्विशेषेपि ।
हनुमति कृतप्रतिज्ञे दैवमदैवं यमोप्ययमः ॥ २९ ॥
 
3990
 
कपोले जानक्या: करिकलभदन्तद्युतिमुषि
स्मरस्मेरं गण्डोड्डमरपुलकं वक्रकमलम् ।