This page has not been fully proofread.

वीररसनिर्देश:
 
3977
 
परस्परेण क्षतयोः प्रहन-
रुक्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेपि कयोश्चिदासी-
देकाप्सर : प्रार्थितयोर्विवादः ॥ १७ ॥
 
3978
 
कश्चिद्विषत्खड्ग हतोत्तमाङ्गः
 
सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तमुराङ्गन: स्वं
नृत्यत्कबन्धं समरे ददर्श ॥ १८ ॥
 
कालिदासस्यैतौ ।
 
3979
 
ते क्षत्रियाः कुण्डलिनो युवानः
परस्परं सायकविक्षताङ्गाः ।
 
कुम्भेषु लग्नाः सुषुपुर्गजानां
कुचेषु लना इव कामिनीनाम् ॥ १९ ॥
 
S
 
3980
 
भूरेणुदिग्धा नवपारिजात-
स्रजो रजोवासित बाहुमध्याः ।
गाढं शिवाभिः परिरभ्यमाणाः
सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ २० ॥
 
भगवतो व्यासस्यैतौ ।
 
६०७
 
3981
 
मां
 
जन्मेन्दोरमले कुले व्यपदिशस्यद्यपि धत्से गदां
दुःशासन कोष्णशोणितसुराक्षीवं रिपुं भाषसे ।
दर्पान्धो मधुकैटभद्दिषि हरावप्युद्धतं चेष्टसे
मत्रासान्नृपशो विहाय समरं पङ्केधुना लीयसे ॥ २१ ॥
 
नारायणभदृस्य ।