This page has not been fully proofread.

६०६
 
शार्ङ्गधरपद्धतिः
 
3972
 
यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोन्यतः प्रयातुम् ।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः क्रियेत ॥ १२ ॥
 
नारायणभदृस्य ।
 
3973
 
अन्त्रैः स्त्रैरपि संयताग्रचरणो मूविरामक्षणे
स्वाधीनव्रणिताङ्गशस्त्रनिचितो रोमोद्गमं वर्मयन् ।
भग्नानुवलयञ्जितान्परभटानाधर्षयन्निष्ठुरं
धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ॥ १३ ॥
 
धनिकस्य ।
 
3974
 
वयस्याः क्रोष्टारः प्रतिशृणुत बद्धोञ्जलिरयं
किमप्याकाङ्कामः क्षरति न यथा वीरचरितम् ।
मृतानामस्माकं भवति परवश्यं वपुरिदं
भवद्भिः कर्तव्यं नहि नहि पराचीनचरणम् ॥ १४ ॥
 
हम्मीरनरेन्द्रस्य ।
 
3975
 
रक्तं नक्तंचरौघः पिवति वमति च ग्रस्तकुन्तः शकुन्तः
क्रव्यं नव्यं गृहीत्वा प्रणदति मुदितो मत्तवेतालवालः ।
क्रीडत्यन्रीडमस्मित्रुधिर मधुवशात्पूतना नूतनाङ्गी
 
• योगिन्यो मांसद: प्रमुदितमनसः भूरशक्ति स्तुवन्ति ॥ १५ ॥
 
कवीश्वरस्य ।
 
3976
 
कोप्येष खण्डितशिरा विकसन्मुखश्रीः
प्रारब्धताण्डवविधेिः सुरकामिनीभिः ।
आलोक्यते निजकराभिनयानुरूप
व्यापारितेक्षणनिवेदितसत्त्वसारः ॥ १६ ॥
 
घावीश्वरकाञ्चनस्य ।