This page has not been fully proofread.

वीररस निर्देश:
 
3966
 
खड्गास्तिष्ठन्तु मत्तेभकुम्भकूटाट्टहासिनः ।
 
एकदोर्दण्डशेषोपि कः सहेत पराभवम् ॥ ६ ॥
कस्यापि ।
 
3967
 
जीवन्नेत्र मृतोसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ७ ॥
 
दामोदरगुप्तस्य ।
 
3968
 
रविमणिरपि निश्चेष्टः पादस्तिग्मंद्युतेर्मनाक्स्पृष्टः ।
ज्वलतितरामिति को वा मन्युं सोढुं क्षमो मानी ॥ ८ ॥
 
इन्द्रसिंहस्य ।
 
3969
 
लोक: शुभस्तिष्ठतु तावदन्यः
परामुखाणां समरेषु पुंसाम् ।
पत्नयोपि तेषां न हिया मुखानि
पुर: सखीनामिह दर्शयन्ति ॥ ९ ॥
 
3970
 
हा तात तातेति स वेदनार्तः
कणन्हदन्मूत्रकफानुलिप्तः ।
वर मृतः किं भवने किमाजौ
संदष्टदन्तच्छदमीमवक्त्रः ॥ १० ॥
 
3971
 
संमूर्च्छितं संयुगसंप्रहारैः
 
पश्यन्ति सुप्तप्रतिबुद्धतुल्यम्
 
1.
 
६०५
 
आत्मानमङ्गेषु सुराङ्गनानां
 
मन्दाकिनी मारुतवीजिताङ्गाः ॥ ११ ॥
 
एते वराहमिहिरस्य ।