This page has been fully proofread once and needs a second look.

संतोषप्रशंसा
 

302
 

गुणैरुत्तुङ्गतां याति नोच्चैरासनसंस्थितः ।
 

प्रासादशिखरस्थोपि काकः किं गरुडायते ॥ १३ ॥

भर्तृहरेः ।
 

303
 

गुणवन्तः किक्लिश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।

बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः ॥ १४ ॥
 

304
 

गुणो दूषणतां याति दूषणं गुणतां क्वचित् ।
 

तथा हि नम्रता दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥
 

305
 

अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।

गुणोपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ॥ १६ ॥
 

306
 
४७
 

अनवसरे गुणवानपि हृदयादवतार्यते हारः ।

पश्य शलाकावसरे तृणेपि भूपैः प्रसार्यते स्वकरः ॥१७॥
 

केषामध्प्येते ।
 

------------
अथ संतोषप्रशंसा ॥ १९ ॥
 

307
 

अकृत्वा परसंतापमगत्वा खलनम्रताम् ।
 

अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्वद्दुबहु ॥ १ ॥
 

व्यासस्य ।
 

308
 

वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या

सम इह परितोषो निर्विशेषो विशेषः ।

स हि भवति दरिद्रो यस्य तृष्णा विशाला

मनसि च परितुष्टे कोर्थवान्को दरिद्रः ॥ २ ॥
 

र्तृहरेः ।