This page has not been fully proofread.

संतोषप्रशंसा
 
302
 
गुणैरुत्तुङ्गतां याति नोचैरासनसंस्थितः ।
 
प्रासादशिखरस्थोपि काकः किं गरुडायते ॥ १३ ॥
भर्तृहरेः ।
 
303
 
गुणवन्तः किश्यन्ते प्रायेण भवन्ति निर्गुणाः सुखिनः ।
बन्धनमायान्ति शुका यथेष्टसंचारिणः काकाः ॥ १४ ॥
 
304
 
गुणो दूषणतां याति दूषणं गुणतां कचित् ।
 
तथा हि नम्रता दोषः स्तनयोः स्तब्धता गुणः ॥ १५ ॥
 
305
 
अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।
गुणोपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ॥ १६ ॥
 
306
 
४७
 
अनवसरे गुणवानपि हृदयादवतार्यते हारः ।
पश्य शलाकावसरे तृणेपि भूपैः प्रसार्यते स्वकरः ॥१७॥
 
केषामध्येते ।
 
अथ संतोषप्रशंसा ॥ १९ ॥
 
307
 
अकृत्वा परसंतापमगत्वा खलनम्रताम् ।
 
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्वद्दु ॥ १ ॥
 
व्यासस्य ।
 
308
 
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषो निर्विशेषो विशेषः ।
स हि भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान्को दरिद्रः ॥ २ ॥
 
भदहरेः ।