This page has not been fully proofread.

६०४
 
शार्ङ्गधरपद्धतिः
 
अस्मिन्निशीथविरहज्वरजागरूक-
कोकाङ्गनाकरुणकूजितकष्टमस्ति ॥ ११ ॥
 
कस्यापि
 
3960
 
अयं स्निग्धश्यामो य इह विहरत्यम्बुजवने
विनिद्रे व्यागुञ्जन्मधुप इति तं जल्पतु जनः ।
अहं शङ्के पङ्केरुहकुहरवासव्यसानेनीं
श्रियं भृङ्गच्छद्म। मुररिपुरुपेतो रमयितुम् ॥ १२ ॥
 
अथ वीररसनिर्देशः ॥ १४० ॥
 
3961
 
भर्तृपिण्डानृणकरो यशः क्रय महापणः ।
 
सुराङ्गनास्वयंग्राहो रम्यः कालोयमागतः ॥ १ ॥
 
शाण्डिल्यस्य ।
 
3962
 
प्रायेण सुकरं दानं प्रायेण सुकरं तपः ।
 
प्राणानपेक्षी व्यापारः पुनर्वीरस्य दुष्करः ॥ २ ॥
 
कस्यापि ।
 
3963
 
क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म व्यवस्थितम् ।
तेन पृष्ठं न दातव्यं पृष्ठदो ब्रह्मा भवेत् ॥ ३ ॥
 
3964
 
भगवतो व्यासस्य ।
 
मा भैष्ट नैते नित्रिंशा नीलोत्पलदलत्विषः ।
 
एते वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ॥ ४ ॥
 
कस्यापि ।
 
3965
 
धृतधनुषि शौर्यशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।
रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ ५ ॥
 
बाणभट्टस्य ।