This page has not been fully proofread.

संमिश्राख्यानम्
 
3954
 
भ्रूचातुर्यात्कुञ्चितान्ताः कटाक्षाः
स्निग्धा हावा लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणामेतद्भूषणं चायुधं च ॥ ६ ॥
भर्तृहरेः ।
 
3955
 
अधीतविद्यैर्विगते शिशुवे
 
धनोजिते हारिणि यौवने च ।
 
सेव्या नितम्बास्तु विलासिनीनां
 
ततस्तदर्थ धरणीधराणाम् ॥ ७ ॥
 
कस्यापि ।
 
3956
 
यत्रोदारा दारास्तत्र न कान्तः स्वतः कान्तः ।
 
यत्र तु कान्तः कान्तस्तत्र न दारा गुणोदाराः ॥ ८ ॥
 
श्रीदिनकरदेवानाम् ।
 
3957
 
अवचनं वचनं गुरुसंनिधा-
वनवलोकनमेव विलोकनम् ।
अवयवावरणं हि यदंशुक-
व्यतिकरेण तदङ्ग समर्पणम् ॥ ९ ॥
 
वामनस्वामिनः ।
 
3958
 
अनुदिनमभ्यासदृढैः सोढुं दीर्घोपि शक्यते विरहः ।
प्रत्यासन्न समागम मुहूर्ता विघ्नस्तु दुविरहः ॥ १० ॥
 
कस्यापि ।
 
3959
 
ग्रामोपशल्यतटिनीतटमण्डपेस्मि-
न्मा पान्थ मन्थरगते रजनी नयस्व ।