This page has not been fully proofread.

६०२
 
शार्ङ्गधरपद्धतिः
 
अथ संमिश्राख्यानम् ॥ १३९ ॥
 
3949
 
यो न दीर्घसितापाङ्गविलासललितभ्रुवः ।
प्रियामुखस्य वशगस्तस्मै नृपशवे नमः ॥ १ ॥
 
कस्यापि ।
 
3950
 
कुचावालोक्य तन्वचाः शिरः कम्पयते युवा ।
तयोरन्तर निर्मनां दृष्टिमुत्पाटयन्निव ॥ २ ॥
 
कस्यापि ।
 
3951
 
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्ट्रे
कान्ता पयोधर युगे रतिखेदखिन्नः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती
धन्यः क्षपां क्षपयति क्षणलब्धनिद्रः ॥ ३ ॥
 
कस्यापि ।
 
3952
 
कर्णे तालदलं तनौ मलयजं कर्पूरवासोंशुके
चूले गुम्फितकेतकीदलभरः कण्ठे नवैकावली ।
वास: श्रीवनवाससीमान वचश्रीः सत्कवेरुक्तयो
व नागर खण्डमस्तु पुरतः प्रेमाकुलाः कुन्तलाः ॥ ४ ॥
 
कस्यापि ।
 
3953
 
मधु च विकसितोपलावतंसं
 
शशिकरपल्लवितं च हर्म्यपृष्ठम् ।
मदनजनितविभ्रमा च कान्ता
 
फलमिदमर्थवतां विभूतयोन्याः ॥ ५ ॥
 
भर्टमेण्ठस्य ।