This page has not been fully proofread.

शिशिरस्वभावाख्यानम्
 
वारं वारमुदार सीत्कृतरवैर्दन्तच्छदं पीडय-
न्प्राय: शैशिर एष संप्रति मरुत्कान्तासु कान्तायते ॥१०॥
 
कस्यापि ।
 
39
 
3945
 
चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोंशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ ११ ॥
 
कस्यापि ।
 
६०१
 
अथ शिशिरपथिकः ।
 
3916
 
पुण्यामा पूर्णवाञ्छ: प्रथममगणितप्लोषदोषः प्रदोषे
पान्थः सुत्वा यथेच्छं तदनु तनुतणे घामाने ग्रामदेव्याः ।
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रे
 
वाते वाति प्रकामं हिमकणिनि कणत्कोणतः कोणमेति ॥१२॥
 
बाणभहस्य ।
 
3947
 
संविष्टो ग्रामदेव्याः कुटघटित कुटीकुद्य कोणैक दे शे
शीते संवाति वायौ हिमकणिनि रणद्दन्तपद्रियामः ।
पान्थः कन्थां निशीथे परिकुथितजरत्तन्तुसंतानगुर्वी
ग्रीवापादाग्रजानुग्रहणचटचटत्कर्पटं प्रावृणोति ॥ १३ ॥
 
मयूरस्य ।
 
3948
 
आरात्कारीषवद्वेर्विरचितसुतृण त्रस्तरान्तर्निषण्णै:
संशीर्ण ग्रन्थि कन्थाविवरवशविशच्छीत वाताभिभूतैः ।
नीता: कृच्छ्रेण पान्थैः श्वभरिव निबिडं जानुसंकोचकुज्जै-
रन्तदुर्वार दु: खडिगुणतरकृतायामयामास्त्रियामाः ॥ १४ ॥
 
कस्यापि ।