This page has not been fully proofread.

५९८
 
शार्ङ्गधरपद्धतिः
 
3929
 
अमन्दमगिनूपुरक्कगनचारुचारक्रमं
झणज्झणित मेखला स्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥ ११ ॥
 
कस्यापि ।
 
अथ हेमन्तवायवः ।
 
3930
 
हूणीसीमन्तमुद्रां सपदि तरलयन्कीरकान्ताकुचान्त:-
स्वच्छन्द स्रस्तवस्त्राञ्चलचपलतया लोलयन्हारवल्लीम् ।
प्रालेयावासपृथ्वीधरशिखर चल चारुवारिप्रवाह-
प्रक्षोभप्रातिभश्रीः प्रसरति परितो हैमनो गन्धवाहः ॥ १२ ॥
 
कस्यापि ।
 
अथ हेमन्तपथिकः ।
 
3931
 
हे पान्थ प्रियविप्रयोगहुतभुग्ज्वालानभिज्ञोसि किं
किं वा नास्ति तव प्रिया गतघृणः किं वा विहीनो धिया ।
येनास्मिन्नवकुङ्कुमारुणरुचिव्यासङ्गधर्मोचिते
 
-
 
कुन्दानन्दितमत्तषट्दकुले काले गृहान्निर्गतः ॥ १३ ॥
 
कस्यापि ।
 
3932
 
आहूतोपि सहायैरे मीत्युक्त्वा विमुक्तनिद्रोपि ।
गन्तुमना अपि पथिकः संकोचं नैव शिथिलयति
 
3933
 
॥१४॥
 
भर्वोः ।
 
शीतार्तिप्रसरलथाकुलपदन्यासैः समुत्कम्पिभिः
पान्थैर्निर्दयतुच्छगो धननदढण्टारवैः सूचिताः ।
प्राप्यन्ते हिमपीडितानि निभृतप्रोद्गाढधूमा घन-
स्तोका लक्ष्यकुटीरकाः कथमपि प्राप्ता गिरिग्रामकाः ॥१५॥
 
श्रीभोजदेवस्य ।