This page has not been fully proofread.

हेमन्तस्वभावाख्यानम्
 
येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी
तेषामायामियामा यमसदनसमा यामिनी याति यूनाम् ॥ ६ ॥
 
कस्यापि ।
 
3925
 

 
प्रालेयशैलशिशिरानिलसंप्रयोगः
प्रोत्फुल्लकुन्दमकरन्दहृतालिवृन्दः
कालोयमापतति कुङ्कुमपङ्कपिङ्ग-
प्रोत्तुङ्गरम्यरमणीकुचसङ्गयोग्यः ॥ ७ ॥
 
भोहरस्य ।
 
अथ कन्दुकक्रीडा ।
 
3926
 
चञ्चल्लोलाञ्चलानि प्रतिसरणि चलव्यस्तवेणीनि बाहो-
विक्षेपाद्दक्षिणस्य प्रचलितवलयस्फारकोलाहलानि ।
 
श्वासत्रुट्यद्वचांसि द्रुतमितर करोत्क्षेपलोलालकानि
स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि ॥ ८ ॥
 
राजशेखरस्य ।
 
3927
 
पयोधराकार धरो हि कन्दुकः
करेण रोषादिव ताद्यते मुहुः ।
 
५९७
 
इतीव नेत्राकृतिभीतमुत्पलं
 
तस्याः प्रसादाय पपात पादयोः ॥ ९ ॥
कालिदासस्य ।
 
3928
 
वक्र श्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दु कं
क्रीडाकौतुकमिश्रभावमनया तिर्यग्वहन्त्याननम् ।
भृङ्गार ग्रह कृष्णकेतकदलस्पर्धावतीनां दृशां
दीर्घापाङ्गतरंगणैकसुहृदां कोप्येष पात्रीकृतः ॥ १० ॥
 
राजशेखरस्य ।