This page has not been fully proofread.

५९६
 
शार्ङ्गधरपद्धतिः
 
अथ हेमन्तस्वभावाख्यानम् ॥ १३७ ॥
 

 
3919
 
हिमधवलदन्तकेशा मन्दद्युतितारका बृहत्तिमिरा ।
द्विगुणीभूता रजनी वृद्धेव शनैः शनैर्याति ॥ १ ॥
 
बीजकस्य ।
 
3920
 
शुकहरितयवानां सीसि नीहारभासः
 
सपदि विगतनिद्राः क्रौञ्चकान्ताः क्षपान्ते ।
विदधति कमनीयं काणमुद्यत्ककारं
सरलितगलनालं जर्जराः स्फाररेफम् ॥ २ ॥
 
3921
 
वेपन्ते कपयो भृशं कृतजडं गोजाविकं ग़्लायति
श्वा चुल्लीकुहरोदरं क्षणमपि प्राप्तं च नैवोज्झति ।
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव-
त्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥३॥
लक्ष्मीधरस्य ।
 
3922
 
कस्यापि ।
 
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां
नवकलमपलाल स्रस्तरे सोपधाने ।
परिहरति सुषुप्तं हालिकद्वन्द्वमारा-
त्कुचकलशमहोष्माबद्धरेखस्तुषारः ॥ ४ ॥
कमलायुधस्य
 
3923
 
हे हेमन्त स्मरिष्यामि त्वय्यतीते गुणद्वयम् ।
अयत्नशीतलं वारि निशा च सुरतक्षमा ॥ ५ ॥
कस्यापि ।
 
3924
 
प्रोद्यत्प्रौढारविन्दयुतिभूति विदलत्कुन्दमाद्यविरेफे
काले प्रालेयवातप्रचल विकसितो हाममन्दारदामि ।