This page has not been fully proofread.

शरत्स्वभावाख्यानम्
 
3914
 
परिभ्रमन्त्या भ्रमरीविनोदे
 
नितम्बाबेम्बाद्विगलहुकूलम् ।
विलोक्य कस्याश्चन कोमलाङ्गयाः
 
पुंभावमन्याः सुदृशो ववाञ्छुः ॥ १३ ॥
 
गुणाकरस्यैतौ ।
 
अथ शरद्वायवः ।
 
3915
 
वान्ति रात्रौ रतिकान्तकामिनीसुहृदोनिलाः ।
ललनालोलधमिल्लमल्लिकामोदवासिताः ॥ १४ ॥
 
कस्यापि ।
 
3916
 
वान्ति
 
कह्लारसुभगाः सप्तच्छदसुगन्धयः ।
वाता नवरतग्लानवधूगमनमन्थराः ॥ १५ ॥
 
वाल्मीकिमुनेः ।
 
अथ शरत्पथिकः ।
 
3917
 
पङ्कानुषङ्गं पथि विस्मरन्तः
 
कथावशेषे च पयोदवृन्दे ।
मार्गेषु चन्द्रातपपिच्छिलेषु
 
पदे पदे चस्खलुरध्वनीनाः ॥ १६ ॥
 
अभिनन्दस्य ।
 
3918
 
इह निचुलनिकुञ्जे वंशसंभारभाजि
स्वपिषि यदि मुहूर्त पश्यसि क्षेत्रमेतत् ।
इति पथिकमकस्मान्मार्ग एवोपविष्टं
वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥
 
१७ ॥
कस्यापि ।
 
५९५