2023-04-13 11:24:08 by Ravindranatha Menon
This page has been fully proofread once and needs a second look.
295
गुणा गुणज्ञेषु गुणीभवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥ ६ ॥
296
गुणिनं जनमालोक्य निजबन्धनशङ्कया ।
राजंल्लक्ष्मीः कुरङ्गीव दूरं दूरं पलायते ॥ ७ ॥
297
गुणैः सर्वज्ञकल्पोपि सीदत्येको निराश्रयः ।
अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते ॥ ८ ॥
298
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ ९ ॥
299
गुणैर्गौरवमायाति न महत्यापि संपदा ।
पूर्णेन्दुर्न तथा वन्द्यो निष्कलङ्को यथा कृशः ॥ १० ॥
300
न सौख्यसौभाग्यकरा गुणा नृणां
स्वयं गृहीताः सुदृशां कुचा इव ।
परैर्गृहीता द्वितयं वितन्वते
न तेन गृह्णन्ति निजं गुणं बुधाः ॥ ११ ॥
301
कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्ठादग्निरहे: फणादपि मणिर्गोपित्ततो रोचना
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१२॥
केषामप्येते ।