Proofing

✦

This page has been fully proofread once and needs a second look.

शार्ङ्गधरपद्धतिः
 

 
295
 

गुणा गुणज्ञेषु गुणीभवान्त
वन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।

सुस्वादुतोयाः प्रवहन्ति नद्यः

समुद्रमासाद्य भवन्त्यपेयाः ॥ ६ ॥
 

296
 

गुणिनं जनमालोक्य निजबन्धनशङ्कया ।

राजजंल्लक्ष्मी:मीः कुरजीङ्गीव दूरं दूरं पलायते ॥ ७ ॥
 

297
 

गुणैः सर्वजज्ञकल्पोपि सीदत्येको निराश्रयः ।

अनर्धघमपि माणिक्यं हेमाश्रयमपेक्षते ॥ ८ ॥
 

298
 

गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।

विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ ९ ॥
 

299
 
गुण

गुणैर्
गौरवमायाति न महत्यापि संपदा ।
 

पूर्णणेन्दुर्न तथा बन्वन्द्यो निष्कलङ्को यथा कृशः ॥ १० ॥
 

300
 

न सौख्य सौभाग्यकरा गुणा नृणां

स्वयं गृहीताः सुदृशां कुचा इव ।

परैर्गृहीता द्वितयं वितन्वते
 

न तेन गृह्णन्ति निजं गुणं बुधाः ॥ ११ ॥
 

301
 

कौशेयं कृमिजं सुवर्णमुपलाहूद्दूर्वापि गोरोमतः
 

पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।

काष्टाठादमिग्निरहे: फणादपि मणिर्गोपित्ततो रोचना

प्रराकाशश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१२॥
 

केषामप्येते ।