This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
295
 
गुणा गुणज्ञेषु गुणीभवान्त
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
सुस्वादुतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः ॥ ६ ॥
 
296
 
गुणिनं जनमालोक्य निजबन्धनशङ्कया ।
राजलक्ष्मी: कुरजीव दूरं दूरं पलायते ॥ ७ ॥
 
297
 
गुणैः सर्वजकल्पोपि सीदत्येको निराश्रयः ।
अनर्धमपि माणिक्यं हेमाश्रयमपेक्षते ॥ ८ ॥
 
298
 
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥ ९ ॥
 
299
 
गुणगौरवमायाति न महत्यापि संपदा ।
 
पूर्णदुर्न तथा बन्यो निष्कलङ्को यथा कृशः ॥ १० ॥
 
300
 
न सौख्य सौभाग्यकरा गुणा नृणां
स्वयं गृहीताः सुदृशां कुचा इव ।
परैर्गृहीता द्वितयं वितन्वते
 
न तेन गृह्णन्ति निजं गुणं बुधाः ॥ ११ ॥
 
301
 
कौशेयं कृमिजं सुवर्णमुपलाहूर्वापि गोरोमतः
 
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्टादमिरहे: फणादपि मणिर्गोपित्ततो रोचना
प्रकाश स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१२॥
 
केषामप्येते ।