This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
3909
 
इयमिदमत्यन्तसमं नीचे प्रभविष्णुता शरच्चेयम् ।
क्षेत्रेभ्यः प्राप्य फलं खलेषु निक्षिप्यते यस्याम् ॥ ८ ॥
 
जयगुप्तस्य ।
 
3910
 
चेतः कर्षन्ति सप्तच्छदकुसुमरसासारसौरभ्यलुभ्य-
श्रृङ्गीसंगीतभङ्गिश्रुतिसुभगदिशो वासराः शारदीनाः ।
किं च व्याकोशपेरुहमधुरमुखीं संचरच्चञ्चरीक-
श्रेणीवेणीसनाथां रमयात तरुणः पद्मिनीमंशुमाली ॥ ९ ॥
 
श्रुतधरस्य ।
 
3911
 
अथोपगूढे शरदा शशाङ्के
शरद्ययौ शान्ततडित्कटाक्षा ।
 
कासां न सौभाग्यगुणोङ्ग नानां
 
नष्टः परिभ्रष्टपयोधराणाम् ॥ १० ॥
 
कस्यापि ।
 
अथ भ्रमरीक्रीडा ।
 
3912
 
चेलाञ्चलेन चलहारलताप्रकाण्डै-
र्वेणीगुणेन च बलाइलयीकृतेन ।
हेलाहितभ्रमरकभ्रममण्डलीभिः
पत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ ११ ॥
 
कस्यापि ।
 
3913
 
भ्रमात्मकीर्णे भ्रमरीषु किंचि-
चेलाञ्चले चञ्चललोचनानाम् ।
 
कुचौ कदाचिज्जघनं युवानो
 
विलोक्य साफल्यमवापुरक्ष्णाम् ॥ १२ ॥
 
C