This page has not been fully proofread.

शरत्स्वभावाख्यानम्
 
3903
 
दर्शयन्ति शरनद्यः पुलिनानि शनैः शनैः ।
नवसंगमसव्रीडजघनानीव योषितः ॥ २ ॥
 
3904
 
न तज्जलं यन्न सुचारुपङ्कजं
 
न पङ्कजं तब्द्यदलीनषदम् ।
 
न षटूदोसौ न जुगुञ्ज यः कलं
 
न गुञ्जितं तन्त्र जहार यन्मनः ॥ ३ ॥
भर्तृस्वामिनः ।
 
3905
 
भगवतो व्यासस्य ।
 
एकेन चुलुकेनाब्धिार्नैपीतः कुम्भयोनिना ।
 
तस्योदयेतः कालुष्यं त्यजन्त्यापो भयादिव ॥ ४ ॥
 
कस्यापि
 
3906
 
काशा: क्षीरनिकाशा दधिवरवर्णानि सप्तपर्णानि
नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥ ५ ॥
 
गण्डगोपालस्य ।
 
3907
 
तीक्ष्णं विस्तपति नीच इवाचिराद्यः
 
शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्ता
 
कामी दरिद्र इव शोषमुपैति पङ्कः ॥ ६ ॥
 
:
 
भासस्य ।
 
3908
 
५९३
 
अर्ध सुवा निशाया: सरभससुरतायाससन्नश्लथाङ्गः
प्रोडूतासह्यतृष्णो मधुमदविरतौ हर्म्यपृष्ठे विबुद्धः ।
संभोगक्लान्तकान्ताशिथिलभुजलतावर्जितं गर्गरीतो
ज्योत्स्नाभिन्नाच्छधारं न पिबति सलिलं शारदं मन्दभाग्यः ॥ ७ ॥
भर्तृहरेः ।