This page has not been fully proofread.

वर्षास्वभावाख्यानम्
 
गाढारम्भनिगूढनीरद घटा संघट्टनीलीभव-
व्योमक्रोडकटाहपातुकपयोवेणीकणमाहिणः ॥ २१ ॥
 
कृष्णपिऴस्य ।
 
-
 
अथ वर्षापथिकः ।
 
3883
 
गर्ज वा वर्ष वा मेघ मुञ्च वाशनितोमरान् ।
गणयन्ति न शीतोष्णं वल्लभाभिमुखा जनाः ॥ २२ ॥
 
कस्यापि ।
 
3884
 
उपरि पयोधरमाला दूरे बाला किमेतदापतितम् ।
हिमवति दिव्यौषधयः कोपाविष्ट: फणी शिरसि ॥ २३ ॥
 
श्रीभोज देवस्य ।
 
3885
 
किं गतेन यदि सा न जीवति
 
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
 
न प्रयाति पथिकः स्वमन्दिरम् ॥ २४ ॥
भर्तृहरे ।
 
५८९
 
3886
 
उपरि घनं घनपटलं तिर्यग्गिरयोपि नर्तितमयूराः ।
क्षितिरपि कन्दलघवला दृष्टिं पथिकः क पातयतु ॥ २५ ॥
 
कस्यापि ।
 
3887
 
बह रौति बका रटन्ति तडितो भ्राम्यन्त्यतिव्याकुला
विक्रोशन्ति घनाघनाश्च विलपत्युच्चैर्बलाकावलिः ।
आत्मानं मरुतः क्षिपन्ति सलिलासारः पतत्यग्रतो
मुक्त्वा प्रावृषि साहसैकरसिके याति प्रियामध्वगे ॥ २६ ॥
 
कस्यापि ।
 
3888
 
नृत्यचन्द्रकिणि कणन्मधुलिहि श्यामायमानक्षितौ
धीरध्वानपयोमुचि प्रविलसत्सौदामिनीदांमत्रि ।