This page has not been fully proofread.

५८६
 
शार्ङ्गधरपद्धतिः
 
सुरतसुभगो नूनं कालः स एव समागतो
 
मरणशरणा यस्मिन्नेते भवन्ति त्रियोगिनः ॥ ६ ॥
 
विज्जकायाः ।
 
3868
 
वज्रेण त्रिजगत्पतेर्बलरिपोरच्छिन्नपक्षाः पुरा
ये भीता निममज्जुरब्धिजठरे ते लूनपक्षान्गिरीन् ।
आश्वास्य त्रणदुःखजां शमयितुं तेषामुदग्रव्यथा-
मुत्तस्थुर्जलदच्छलेन जलधेरूदाम्भसः पर्वताः ॥ ७ ॥
 
सूक्तिसहस्रात् ।
 
3869
 
क्षपाः क्षामीकृत्य प्रसभमपहत्याम्बु सरितां
प्रताप्योर्वी कृत्वां तरुगहनमुच्छोप्य सकलम् ।
क संप्रत्युष्णांगुर्गत इति तदन्वेषणपरा-
स्तडिद्दीपालोका दिशि दिशि चरन्तीह जलदाः ॥ ८ ॥
 
पाणिनेः ।
 
3870
 
दिशां हाराकाराः शमितशमभारा अपि मुनेः
ससूचीसंचाराः कृतमदविकाराच शिखिनाम् ।
हता ध्वव्यापारास्तुहिन कणसारा विरहिणी-
मनः कीर्णाङ्काराः किरति जलधारा जलधरः ॥ ९ ॥
 
कस्यापि ।
 
3871
 
मन्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु-
द्वेगध्वस्तकुटीर काग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यय कुटुम्बिनी
कुचभर प्रस्त्रेदभेदाच्छेदः
 
प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १० ॥
 
कस्यापि ।
 
3872
 
किंचिन्मुद्रितपांसवः शिखिकुलै रुत्कण्ठमालो किता
जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।