This page has been fully proofread once and needs a second look.

गुणप्रशंसा
 

 
287
 

तुल्येपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
 

हिमांशुमाशु ग्रसते तन्त्रदिसःम्नः स्फुटं फलम् ॥ ६ ॥
 
भा

मा
घकवेः ।
 

288
 

तेजस्विनि क्षमासारे नातिकार्कश्यमाचरेत् ।

अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ७ ॥
 

289
 

तेजोहीने महीपाले स्वे परे च विकुर्वते ।
 

निःशङ्को हि जनो धत्ते पदं भस्मन्यनूष्माणमणि ॥ ८ ॥
 

कयोरप्येतो
 
तौ
---------
अथ गुणप्रशंसा ॥ १८ ॥
 

290
 

गुणाः कुर्वन्ति दूतत्वं दूरेपि वसतां सताम् ।

केतकी गन्धमात्घ्राय स्वयमायान्ति षटुट्पदाः ॥ १ ॥
॥१॥
 

291
 

गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् ।

पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते ॥ २ ॥
 

292
 

गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः ।

वासुदेवं नमस्यन्ति वसुदेवं न मानवाः ॥ ३ ॥
 

293
 

गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।

अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोपि ॥ ४ ॥
 

294
 

नीरसान्यपि रोचन्ते कर्पासस्य फलानि मे ।

येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ ५ ॥
 
४५