This page has not been fully proofread.

गुणप्रशंसा
 
287
 
तुल्येपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
 
हिमांशुमाशु यसते तन्त्रदिसः स्फुटं फलम् ॥ ६ ॥
 
भाघकवेः ।
 
288
 
तेजस्विनि क्षमासारे नातिकार्कश्यमाचरेत् ।
अतिनिर्मन्थनादग्निश्चन्दनादपि जायते ॥ ७ ॥
 
289
 
तेजोहीने महीपाले स्वे परे च विकुर्वते ।
 
निःशङ्को हि जनो धत्ते पदं भस्मन्यनूष्माण ॥ ८ ॥
 
कयोरप्येतो
 
अथ गुणप्रशंसा ॥ १८ ॥
 
290
 
गुणाः कुर्वन्ति दूतत्वं दूरेपि वसतां सताम् ।
केतकी गन्धमात्राय स्वयमायान्ति षटुदाः ॥ १ ॥
॥१॥
 
291
 
गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् ।
पुष्पाणामनुषङ्गेण सूत्रं शिरसि धार्यते ॥ २ ॥
 
292
 
गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः ।
वासुदेवं नमस्यन्ति वसुदेवं न मानवाः ॥ ३ ॥
 
293
 
गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।
अलिरेति वनात्कमलं न दर्दुरस्त्वेकवासोपि ॥ ४ ॥
 
294
 
नीरसान्यपि रोचन्ते कर्पासस्य फलानि मे ।
येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ ५ ॥
 
४५